|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.108. अध्यायः 108
Mahabharata - Udyoga Parva - Chapter Topics
गालवंप्रति गरुडेन स्वेन तस्य पूर्वादिदिक्प्रापणकथनपूर्वकं पूर्वदिग्गुणवर्णनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सुपर्ण उवाच। 5-108-0x(3714)(35565)
अनुशिष्टोऽस्मि देवेन गालव ज्ञानयोनिना।
ब्रूहि कामं तु कां यामि द्रष्टुं प्रथममो दिशम् ॥ 5-108-1(35566)
पूर्वां वा दक्षिणां वाहमथवा पश्चिमां दिशम्।
उत्तरां वा द्विजश्रेष्ठ कुतो गच्छामि गालव ॥ 5-108-2(35567)
यस्यामुदयते पूर्वं सर्वलोकप्रभावनः ।
सविता यत्र सन्ध्यायां साध्यानां वर्तते तपः ॥ 5-108-3(35568)
यस्यां पूर्वं मतिर्जाता यया व्याप्तमिदं जगत्।
चक्षुषी यत्र धर्मस्य यत्र चैष प्रतिष्ठितः ॥ 5-108-4(35569)
कृतं यतो हुतं हव्यं सर्पते सर्वतोदिशम् ॥
एतद्द्वारं द्विजश्रेष्ठ दिवसस्य तथाऽध्वनः ॥ 5-108-5(35570)
अत्र पूर्वं प्रसूता वै दाक्षायण्यः प्रजाः स्त्रियः ।
यस्यां दिशि प्रवृद्धाश्च कश्यपस्यात्मसंभवाः ॥ 5-108-6(35571)
अदोमूला सुराणां श्रीर्यत्र शक्रोऽभ्यषिच्यत।
सुरराज्येन विप्रर्षे देवैश्चात्र तपश्चितम् ॥ 5-108-7(35572)
एतस्मात्कारणाद्ब्रह्मन्पूर्वेत्येषा दिगुच्यते।
यस्मात्पूर्वतरे काले पूर्वमेवावृतासुरैः ॥ 5-108-8(35573)
अत एव च सर्वेषां पूर्वामाशां प्रचक्षते ।
पूर्वं सर्वाणि कार्याणि दैवानि सुखमीप्सता ॥ 5-108-9(35574)
अत्र वेदाञ्जगौ पूर्वं भगवाँल्लोकभावनः ।
अत्रैवोक्ता सवित्रासीत्सावित्री ब्रह्मवादिषु ॥ 5-108-10(35575)
अत्र दत्तानि सूर्येण यजूंषि द्विजसत्तम ।
अत्र लब्धवरः सोमः सुरैः क्रतुषु पीयते ॥ 5-108-11(35576)
अत्र तृप्ता हुतवहाः स्वां योनिमुपभुञ्जते ।
अत्र पातालमाश्रित्य वरुणः श्रियमाप च ॥ 5-108-12(35577)
अत्र पूर्वं वसिष्ठस्य पौराणस्य द्विजर्षभ ।
सूतिश्चैव प्रतिष्ठा च निधनं च प्रकाशते ॥ 5-108-13(35578)
ओङ्कारस्यात्र जायन्ते सृतयो दशतीर्दश ।
पिबन्ति मुनयो यत्र हविर्धूमं स्म धूमपाः ॥ 5-108-14(35579)
प्रोक्षिता यत्र बहवो वराहाद्या मृगा वने।
शक्रेण यज्ञभागार्थे दैवतेषु प्रकल्पिताः ॥ 5-108-15(35580)
अत्राहिताः कृतघ्नाश्च मानुषाश्चासुराश्च ये।
उदयंस्तान्हि सर्वान्वै क्रोधाद्धन्ति विभावसुः ॥ 5-108-16(35581)
एतद्द्वारं त्रिलोकस्य स्वर्गस्य च सुखस्य च।
एष पूर्वो दिशां भागो विशावोऽत्र यदीच्छसि ॥ 5-108-17(35582)
प्रियं कार्यं हि मे तस्य यस्यास्मि वचने स्थितः।
ब्रूहि गालव यास्यामि शृणु चाप्यपरां दिशम् ॥ ॥ 5-108-18(35583)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि अष्टाधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-108-4 गतिर्बुद्धिः जाता प्राप्ता। चक्षुषी आज्यभागाख्ये अग्नीषोमदैवत्ये। धर्मस्य यज्ञस्य ॥ 5-108-6 दाक्षायण्यः अदित्यादयः। प्रजाः लोकान् ॥ 5-108-9 पूर्वं पूर्वसंस्थानि । सुखमीप्सता सुखाद्यर्थिना ॥ 5-108-11 यजूंषि दत्तानि याज्ञवल्क्यायेति शेषः ॥ 5-108-12 स्वां योनिं सोमाज्यपयआदिरूपं जलम् ॥ 5-108-13 पूर्वं मित्रावरुणयोर्यज्ञकाले। पौराणस्य पुराणस्य स्वार्थे तद्धितः । निधनं निमिशापात् ॥ 5-108-14 दशशतीशब्दस्य पृषोदरादिशकारलोपेन दशतीशब्दः सहस्रवाची। दशतीरित्यत्र वाछन्दसीति पूर्वसवर्णः। सृतयो मार्गाः ॥ 5-108-16 तान् हन्ति तेषामायुरल्पीकरोतीत्यर्थः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|